शिवमानसपूजा 
                
            
            
                रत्नै: कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
                नानारत्नविभूषितं मृगमदा मॊदाङ्कितं चन्दनम् ।
                जाजीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
                दीपं दॆव दयानिधॆ पशुपतॆ हृत्कल्पितं गृह्यताम् ॥१॥
                
                सौवर्णॆ नवरत्नखण्डरेचितॆ पात्रॆ घृतं पायसं
                भक्ष्यं पञ्चविधं पयॊदधियुतं रम्भाफलं पानकम् ।
                शाकानामयुतं जलं रुचिकरं कर्पूर खण्डॊज्ज्चलं
                ताम्बूलं मनसा मया विरचितं भक्त्या प्रभॊ स्वीकुरु ॥२॥
                
                
                छत्रं चामरयॊर्युगं व्यजनकं चादर्शकं निर्मलं
                वीणा भॆरि मृदङ्ग काहलकला गीतं च नृत्यं तथा ।
                साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत् समस्तं मया
                सङ्कल्पॆन समर्पितं तव विभॊ पूजां गृहाण प्रभॊ ॥३॥
                
                
                आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
                पूजा तॆ विषयॊपभॊगरचना निद्रा समाधिस्थितिः ।
                सञ्चारः पदयॊः प्रदक्षिणविधिः स्तॊत्राणि सर्वा गिरॊ
                यद्यत्कर्म करॊमि तत्तदखिलं शम्भॊ तवाराधनम् ॥४॥
                
                
                करचरणकृतं वाक्कायजं कर्मजं वा
                श्रवण नयनजं वा मानसं वापराधम् ।
                विहितमविहितं वा सर्वमॆतत् क्षमस्व
                जय जय करुणाब्धॆ श्री महादॆव शम्भॊ ॥५॥