श्री गुरुपरंपरा स्तोत्र
शिवं ज्ञानोपदेष्टारं विष्णूं धर्मोपदेशकं ।
विधिं वेदप्रवक्तारं गुरुमूर्तित्रयं भजे ।।१।।
वसिष्ठं ब्रह्मविद्श्रेष्ठं शक्तिं योगविदां वरं ।
पराशरं पुराणज्ञं प्रणतोsस्मि मुनित्रयम् ।।२।।
व्यासं वेदान्तसूत्राणां वक्तारं बादरायणं ।
श्रीशुकं सूत्रकारं च भजे वेदान्तदेशिकम् ।।३।।
श्रीमद्गौडपादाचार्यम् अद्वैतार्थप्रबोधकं ।
गोविन्दभगवत्पादम् अद्वैताचार्यमाश्रये ।।४।।
अद्वैतस्थापनाचार्यं शंकरं लोकसद्गुरुम् ।
प्रस्थानत्रयभाष्यादिग्रन्थकारं नमाम्यहम् ।।५।।
आद्य: श्रीशंकराचार्य: विश्वरुपतथापरः ।
ज्ञानबोधगिर्याख्य: सिद्धरुपश्चतुर्थक: ।।६।।
ईश्वरो नरसिंहश्च विद्यातीर्थश्च सप्तमः ।
शिवतीर्थो भारती च विद्यारण्ये दशापरे ।।७।।
विद्यातीर्थो गुरुतमो मलयानन्द एव च ।
देवतीर्थो गुरुश्चात्र सरस्वतीविशारदः ।।८।।
सरस्वती यादवेन्द्रो तथा कृष्णसरस्वती ।
ततः परंपराप्राप्तो श्रीमन्नरसिंहसरस्वती ।।९।।
एतान् शंकरपीठस्थान् नमस्यामो वयं मुदा ।
प्रयच्छन्तु सदास्माकं आयुःप्रज्ञायशोबलं ।।१०।।
इति श्रीनसिंहसरस्वतीगुरुपरम्परास्तोत्रं संपूर्णम् ।
स्तोत्रमिदं संपूर्णं, न तु पूर्णा खलु परंपरा ।
वर्धते नगरे सैव, श्रीरामकृष्णतपोबलात् ।। १।।
श्रीमन्नरसिंहसरस्वती-कृपांकिताय क्षीरसागर- कुलभूषणाय श्रीःशाय ।
वेदविग्रहाय, श्रीदत्तरूपमुनीश्वराय,भक्तवत्सलाय, श्रीगुरुदेवाय नमोनमः ।।२।।